|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.12. अध्यायः 012
Mahabharata - Shalya Parva - Chapter Topics
शल्यपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-12-0x(5105)(60773)
पीडिते धर्मराजे तु मद्रराजेन मारिष।
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
परिवार्य रथैः शल्यं पीडयामासुराहवे॥ 9-12-1(60774)
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः।
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः॥ 9-12-2(60775)
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः॥ 9-12-3(60776)
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः॥ 9-12-4(60777)
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्॥ 9-12-5(60778)
नकुलः पञ्चभिश्चैनं सहदेवश्च प़ञ्चभिः।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः॥ 9-12-6(60779)
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः।
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम्॥ 9-12-7(60780)
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष।
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा॥ 9-12-8(60781)
ततः स विशिखं चापं सहदेवस्य धन्विनः।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः॥ 9-12-9(60782)
सहदेवस्तु समरे मातुलं भूरिवर्चसम्।
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्।
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः॥ 9-12-10(60783)
सारथिं चास्य समरे शरेणानतपर्वणा।
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः॥ 9-12-11(60784)
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः।
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्॥ 9-12-12(60785)
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः।
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा॥ 9-12-13(60786)
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः।
विव्याध तरसा राजंस्तदद्भुतमिवाभवत्॥ 9-12-14(60787)
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष।
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः॥ 9-12-15(60788)
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः।
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः॥ 9-12-16(60789)
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः।
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः॥ 9-12-17(60790)
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते।
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः॥ 9-12-18(60791)
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः।
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्॥ 9-12-19(60792)
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः।
तोमरं प्रेषयामास स्वर्णदण्डं महारणे॥ 9-12-20(60793)
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्।
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे॥ 9-12-21(60794)
तानापतत एवाशु पञ्चानां वै भुजच्युतान्।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट्॥ 9-12-22(60795)
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्।
प्रहितं भीमसेनेन शरं कनकभूषणम्॥ 9-12-23(60796)
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्॥ 9-12-24(60797)
गदां च सहदेवेन शरौघैः समवारयत्।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत॥ 9-12-25(60798)
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे॥ 9-12-26(60799)
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः।
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः॥ 9-12-27(60800)
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान्॥ 9-12-28(60801)
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः॥ 9-12-29(60802)
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्।
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्। 9-12-30(60803)
`तथाविधं महाराज मद्रराजस्य विक्रमम्।
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ॥' 9-12-31(60804)
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्।
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत्॥ 9-12-32(60805)
नकुलः सहदेवश्च सात्यकिश्च महारथः।
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः॥ 9-12-33(60806)
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः।
वृतस्तान्योधयामास मद्रराजः प्रतापवान्॥ 9-12-34(60807)
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः॥ 9-12-35(60808)
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः॥ 9-12-36(60809)
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान्।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः॥ 9-12-37(60810)
कथं नु न भवेत्सत्यं तन्माधववचो महत्।
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम॥ 9-12-38(60811)
`अहं मद्धातरश्चैव सात्यकिश्च महारथः।
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम्॥ 9-12-39(60812)
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः।
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम्॥ 9-12-40(60813)
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज।
मद्रराजं समासेदुः पीडयन्तः समन्ततः॥ 9-12-41(60814)
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम्।
व्यधमत्समरे राजा महाभ्राणीव मारुतः॥ 9-12-42(60815)
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्।
शरवृष्टिमपश्याम शलभानामिवायतिम्॥ 9-12-43(60816)
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव॥ 9-12-44(60817)
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः।
निरन्तरमिवाकाशं सम्बभूव जनाधिप॥ 9-12-45(60818)
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत।
बाणान्धकारे महति कृते तत्र महाहवे॥ 9-12-46(60819)
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः।
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः॥ 9-12-47(60820)
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष।
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः॥ 9-12-48(60821)
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः।
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम्॥ 9-12-49(60822)
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः।
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम्॥ ॥ 9-12-50(60823)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-12-25 सहदेवेन प्रेषितामिति पूर्वस्मात्सम्बध्यते॥ 9-12-27 सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते॥ 9-12-38 कथन्नु समरे शक्यं--नहि क्रुद्धो रणे इति झ.पाठः॥ 9-12-12 द्वादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|